Hanumat Kavach

।। श्रीहनुमत्कवचम् ।।

किसी भी विशेष कार्य से पूर्व, यात्रारम्भ में एवं शयन के पहले श्रीहनुमत्कवचम् का पाठ अति-उत्तम एवं फलप्रद कहा गया है । प्रत्येक सुबह दिन की शुरुआत यदि हनुमत कवच से जो भी करता है वह तंत्र, मन्त्र, नजर, भूत प्रेत दोषों से सुरक्षित रहता है l

।। श्रीहनुमत्कवचम् ।।

अस्य श्री हनुमत्कवच-स्तोत्र-मन्त्रस्य श्रीरामचन्द्रो ऋषिः।

अनुष्टुप छन्दः।

श्रीहनुमान् परमात्मा देवता।

मम सकल-कामना-सिद्ध्यर्थे जपे विनियोगः।

 

हनुमान् पूर्वत: पातु दक्षिणे पवनात्मजः।

पातु प्रतीच्यां रक्षोघ्न: पातु सागर-पारगः॥

उदीच्यां ऊर्ध्वत: पातु केसरि-प्रिय-नन्दनः ।

अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः॥

लङ्का-विदाहकः पातु सर्वापद्भ्यो निरन्तरम्।

सुग्रीव-सचिव: पातु मस्तकं वायुनन्दनः॥

फालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम्।

नेत्रे छायापहारी च पातु न: प्लवगेश्वरः॥

कपोले कर्णमूले च पातु श्रीराम-किङ्करः ।

नासाग्रं अञ्जना-सूनुः पातु वक्त्रं हरीश्वरः॥

वाचं रुद्रप्रिय पातु जिह्वां पिङ्गल-लोचनः ।

पातु देव: फाल्गुनेष्ट: चुबुकं दैत्य-दर्पहा॥

पातु कण्ठं च दैत्यारि: स्कन्धौ पातु सुरार्चित: ।

भुजौ पातु महातेजा: करौ च चरणायुधः॥

नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः।

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥

लङ्का-निभञ्जन: पातु पृष्ठदेशे निरन्तरम्।

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः॥

गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ।

ऊरू च जानुनी पातु लङ्काप्रासाद-भञ्जनः॥

जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः।

अचलोद्धारकः पातु पादौ भास्कर-सन्निभः॥

अङ्गान्यमित-सत्वाढ्यः पातु पादाङ्गुलीस्तथा।

सर्वाङ्गानि महाशूर: पातु रोमाणि चात्मवित्॥

हनुमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः ।

स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति॥

हनुमानञ्जना-सूनुः वायुपुत्रो महाबलः ।

रामेष्ट: फाल्गुन-सख: पिङ्गाक्षोऽमितविक्रमः॥

उदधि-क्रमणश्चैव सीताशोक-विनाशनः ।

लक्ष्मण-प्राणदाता च दशग्रीवस्य दर्पहा॥

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः।

स्वापकाले जपेन्नित्यं यात्राकाले विशेषतः।

तस्य मृत्युभयं नास्ति सर्वत्र विजयो भवेत्॥

क्या आप रमल ज्योतिष
सीखना चाहते हैं?

नीचे दिए फॉर्म को भरे!